|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.119. अध्यायः 119
Mahabharata - Vana Parva - Chapter Topics
युधिष्ठिरेण यात्राक्रमेण प्रभासतीर्थेप्रति गमनम् ॥ 1 ॥ तत्रतद्दिदृक्षया कृष्णबलभद्रादीनामागमनम् ॥ 2 ॥
Mahabharata - Vana Parva - Chapter Text
वैशम्पायन उवाच। 3-119-0x(2093)(20578)
गच्छन्स तीर्थानि महानुभावः।
पुण्यानि रम्याणि ददर्श राजा।
सर्वाणि वैप्रैरुपशोभितानि
क्वचित्क्वचिद्भारत सागरम्य ॥ 3-119-1(20579)
स वृत्तवांस्तेषु कृताभिषेकः
सहानुजः पार्थिवपुत्रपौत्रः।
समुद्रगां पुण्यतमां प्रशस्तां
जगाम पारिक्षित पाण्डुपुत्रः ॥ 3-119-2(20580)
तत्रापि चाप्लुत्य महानुभाव
संतर्पयामास पितृडन्सुरांश्च।
द्विजातिमुख्येषु धनं विसृज्य
गोदावरीं सागरगामगच्छत् ॥ 3-119-3(20581)
ततो विपाप्मा द्रविडेषु राज-
न्समुद्रमासाद्य च लोकपुण्यम्।
अगस्त्यतीर्थं च महापवित्रं-
नारीतीर्थान्यथा वीरो ददर्श ॥ 3-119-4(20582)
तत्रार्जुनस्याग्र्यधनुर्धरस्य
निशम्य तत्कर्म परैरशक्यम्।
संपूज्यमानः परमर्षिसङ्घैः
परां मुदं पाणअडुसुतः स लेभे ॥ 3-119-5(20583)
स तेषु तीर्थेष्वभिषिक्तगात्रः
कृष्णासहायः सहितोऽनुजैश्च।
संपूजयन्विक्रममर्जुनस्य
रमे महीपालपतिः पृथिव्याम् ॥ 3-119-6(20584)
ततः सहस्राणि गवां प्रदाय
तीर्थेषु तेष्वम्बुधरोत्तमस्य।
हृष्टः सह भ्रातृभिरर्जुनस्य
संकीर्तयामास गवां प्रदानम् ॥ 3-119-7(20585)
स तानि तीर्थानि च सागरस्य
पुण्यानि चान्यानि बहूनि राजन्।
क्रमेण गच्छन्परिपूर्णकामः
शूर्पारकं पुण्यतमं ददर्श ॥ 3-119-8(20586)
तत्रोदधेः कंचिदतीत्य देशं
ख्यातं पृथिव्यां वनमाससाद।
तप्तं सुरैरत्र तपः पुरस्ता-
दिष्टुं कतथा पुण्यपरैर्नरेन्द्रैः ॥ 3-119-9(20587)
स तत्र तामग्र्यधनुर्धरस्य
वेदीं ददर्शायतपीनबाहुः।
ऋचीकपुत्रस्य तपस्विसङ्घैः
समावृतां पुण्यकृदर्चनीयाम् ॥ 3-119-10(20588)
ततो वसूनां वसुधाधिपः स
मरुद्गणानां च तथाश्विनोश्च।
वैवस्वतादित्यधनेश्वराणा-
मिन्द्रस्य विष्णोः सवितुर्विभोश्च ॥ 3-119-11(20589)
भगस्य चन्द्रस्य दिवाकरस्य
पतेरपां साध्यगणस्य चैव।
धातुः पितॄणां च तथा महात्मा
रुद्रस्य राजन्सगणस्य चैव ॥ 3-119-12(20590)
सरस्वत्याः सिद्धगणस्य चैव
पूष्णश्च ये चाप्यमरास्तथाऽन्ये।
पुण्यानि चाप्यायतनानि तेषां
ददर्श राजा सुमनोहराणि ॥ 3-119-13(20591)
तेषूपवासान्विबुधानुपोष्य
दुत्त्वा च रत्नानि महान्ति राजा।
तीर्थेषु सर्वेषु परिप्लुताङ्गः
पुनः स शूर्पारकमाजगाम ॥ 3-119-14(20592)
स तेन तीरेण तु सागरस्य
पुनः प्रयातः सह सोदरीयैः।
द्विजैः पृथिव्यां प्रथितं महद्भि-
स्तीर्थं प्रभासं समुपाजगाम ॥ 3-119-15(20593)
तत्राभिषिक्तः पृथुलोहिताक्षः
सहानुजैर्देवगणान्पितॄंश्च।
संतर्पयामास तथैव कृष्णा
ते चापि विप्राः सह लोमशेन ॥ 3-119-16(20594)
कस द्वादशाहं जलवायुभक्षः
कुर्वन्क्षपाहःसु तदाऽभिषेकम्।
समन्ततोऽग्नीनुपदीपयित्वा
तेपे तपो धर्मभृतांवरिष्ठः ॥ 3-119-17(20595)
तमुग्रमास्थाय तपश्चरन्तं
शुश्राव रामश्च जनार्दनश्च।
तौ सर्ववृष्णिप्रवरौ ससैन्यौ
युधिष्ठिरं जग्मतुराजमीढम् ॥ 3-119-18(20596)
ते वृष्णयः पाण्डुसुतान्समीक्ष्य
भूमौ शयानान्मलदिग्धगात्रान्।
अनर्हतीं द्रौपदीं चापि दृष्ट्वा
सुदुःखिताश्चुक्रुशुरार्तनादान् ॥ 3-119-19(20597)
ततः स रामं च जनार्दनं च
कार्ष्णि च साम्बं च शिनेश्च पौत्रम्।
अन्यांश्च वृष्णीनुपगम्य पूजां
चक्रे यथाधर्ममहीनसत्वः ॥ 3-119-20(20598)
ते चापि सर्वान्प्रतिपूज्य पार्थां-
स्तैः सत्कृताः पाण्डुसुतैस्तथैव।
युधिष्ठिरं संपरिवार्य राज-
न्नुपाविशन्देवगणा यथेन्द्रम् ॥ 3-119-21(20599)
तेषां स सर्वं चरितं परेषां
वने च वासं परमप्रतीतः।
अस्त्रार्थमिन्द्रस्य गतं च पार्थं
कृष्णे शशंसामरराजसूनुम् ॥ 3-119-22(20600)
श्रुत्वा तु ते तस्य वचः प्रतीता-
स्तांश्चापि दृष्ट्वा सुकृशनतीव।
नेत्रोद्भवं संमुमुचुर्महार्हा
दुःखार्तिजं वारि महानुभावाः ॥ 3-119-23(20601)
इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि एकोनविंशत्यधिकशततमोऽध्यायः ॥ 119 ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-119-2 वृत्तवान् सद्वृत्तः। पार्थिवः पृथ्वीपतिः कश्यपस्तस्य पुत्रः सूर्यस्तस्य पौत्रो युधिष्ठिरः तत्पितुर्धर्मस्य सूर्यपुत्रत्वात्। प्रशस्तां नाम नदीम् ॥ 3-119-4 नारीतीर्थानि ग्राहरूपाः पञ्चाप्सरसो मुनिशापवशाद्यत्र स्थिता अर्जुनेन च शापान्मोचितास्तानि नारीतीर्थानि ॥ 3-119-7 मम्बुधरोत्तमस्य समुद्रस्य ॥ 3-119-14 तीर्थेषु। उपवासान् पुमीपवासिनो विबुधान्पणअडितानुपोष्य वस्त्रैरावास् रत्नानि च तेभ्य एव दत्त्वा ॥ 3-119-20 कार्ज्जि प्रद्युम्नम्। पौत्रं सात्यकिम् ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|