(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

महाभारत का अरयण्क पर्व – Mahabharat Aranyak Parv in Hindi


॥ श्रीः ॥
3.119. अध्यायः 119
Mahabharata - Vana Parva - Chapter Topics
युधिष्ठिरेण यात्राक्रमेण प्रभासतीर्थेप्रति गमनम् ॥ 1 ॥ तत्रतद्दिदृक्षया कृष्णबलभद्रादीनामागमनम् ॥ 2 ॥
Mahabharata - Vana Parva - Chapter Text

वैशम्पायन उवाच। 3-119-0x(2093)(20578)
गच्छन्स तीर्थानि महानुभावः।
पुण्यानि रम्याणि ददर्श राजा।
सर्वाणि वैप्रैरुपशोभितानि
क्वचित्क्वचिद्भारत सागरम्य ॥ 3-119-1(20579)
स वृत्तवांस्तेषु कृताभिषेकः
सहानुजः पार्थिवपुत्रपौत्रः।
समुद्रगां पुण्यतमां प्रशस्तां
जगाम पारिक्षित पाण्डुपुत्रः ॥ 3-119-2(20580)
तत्रापि चाप्लुत्य महानुभाव
संतर्पयामास पितृडन्सुरांश्च।
द्विजातिमुख्येषु धनं विसृज्य
गोदावरीं सागरगामगच्छत् ॥ 3-119-3(20581)
ततो विपाप्मा द्रविडेषु राज-
न्समुद्रमासाद्य च लोकपुण्यम्।
अगस्त्यतीर्थं च महापवित्रं-
नारीतीर्थान्यथा वीरो ददर्श ॥ 3-119-4(20582)
तत्रार्जुनस्याग्र्यधनुर्धरस्य
निशम्य तत्कर्म परैरशक्यम्।
संपूज्यमानः परमर्षिसङ्घैः
परां मुदं पाणअडुसुतः स लेभे ॥ 3-119-5(20583)
स तेषु तीर्थेष्वभिषिक्तगात्रः
कृष्णासहायः सहितोऽनुजैश्च।
संपूजयन्विक्रममर्जुनस्य
रमे महीपालपतिः पृथिव्याम् ॥ 3-119-6(20584)
ततः सहस्राणि गवां प्रदाय
तीर्थेषु तेष्वम्बुधरोत्तमस्य।
हृष्टः सह भ्रातृभिरर्जुनस्य
संकीर्तयामास गवां प्रदानम् ॥ 3-119-7(20585)
स तानि तीर्थानि च सागरस्य
पुण्यानि चान्यानि बहूनि राजन्।
क्रमेण गच्छन्परिपूर्णकामः
शूर्पारकं पुण्यतमं ददर्श ॥ 3-119-8(20586)
तत्रोदधेः कंचिदतीत्य देशं
ख्यातं पृथिव्यां वनमाससाद।
तप्तं सुरैरत्र तपः पुरस्ता-
दिष्टुं कतथा पुण्यपरैर्नरेन्द्रैः ॥ 3-119-9(20587)
स तत्र तामग्र्यधनुर्धरस्य
वेदीं ददर्शायतपीनबाहुः।
ऋचीकपुत्रस्य तपस्विसङ्घैः
समावृतां पुण्यकृदर्चनीयाम् ॥ 3-119-10(20588)
ततो वसूनां वसुधाधिपः स
मरुद्गणानां च तथाश्विनोश्च।
वैवस्वतादित्यधनेश्वराणा-
मिन्द्रस्य विष्णोः सवितुर्विभोश्च ॥ 3-119-11(20589)
भगस्य चन्द्रस्य दिवाकरस्य
पतेरपां साध्यगणस्य चैव।
धातुः पितॄणां च तथा महात्मा
रुद्रस्य राजन्सगणस्य चैव ॥ 3-119-12(20590)
सरस्वत्याः सिद्धगणस्य चैव
पूष्णश्च ये चाप्यमरास्तथाऽन्ये।
पुण्यानि चाप्यायतनानि तेषां
ददर्श राजा सुमनोहराणि ॥ 3-119-13(20591)
तेषूपवासान्विबुधानुपोष्य
दुत्त्वा च रत्नानि महान्ति राजा।
तीर्थेषु सर्वेषु परिप्लुताङ्गः
पुनः स शूर्पारकमाजगाम ॥ 3-119-14(20592)
स तेन तीरेण तु सागरस्य
पुनः प्रयातः सह सोदरीयैः।
द्विजैः पृथिव्यां प्रथितं महद्भि-
स्तीर्थं प्रभासं समुपाजगाम ॥ 3-119-15(20593)
तत्राभिषिक्तः पृथुलोहिताक्षः
सहानुजैर्देवगणान्पितॄंश्च।
संतर्पयामास तथैव कृष्णा
ते चापि विप्राः सह लोमशेन ॥ 3-119-16(20594)
कस द्वादशाहं जलवायुभक्षः
कुर्वन्क्षपाहःसु तदाऽभिषेकम्।
समन्ततोऽग्नीनुपदीपयित्वा
तेपे तपो धर्मभृतांवरिष्ठः ॥ 3-119-17(20595)
तमुग्रमास्थाय तपश्चरन्तं
शुश्राव रामश्च जनार्दनश्च।
तौ सर्ववृष्णिप्रवरौ ससैन्यौ
युधिष्ठिरं जग्मतुराजमीढम् ॥ 3-119-18(20596)
ते वृष्णयः पाण्डुसुतान्समीक्ष्य
भूमौ शयानान्मलदिग्धगात्रान्।
अनर्हतीं द्रौपदीं चापि दृष्ट्वा
सुदुःखिताश्चुक्रुशुरार्तनादान् ॥ 3-119-19(20597)
ततः स रामं च जनार्दनं च
कार्ष्णि च साम्बं च शिनेश्च पौत्रम्।
अन्यांश्च वृष्णीनुपगम्य पूजां
चक्रे यथाधर्ममहीनसत्वः ॥ 3-119-20(20598)
ते चापि सर्वान्प्रतिपूज्य पार्थां-
स्तैः सत्कृताः पाण्डुसुतैस्तथैव।
युधिष्ठिरं संपरिवार्य राज-
न्नुपाविशन्देवगणा यथेन्द्रम् ॥ 3-119-21(20599)
तेषां स सर्वं चरितं परेषां
वने च वासं परमप्रतीतः।
अस्त्रार्थमिन्द्रस्य गतं च पार्थं
कृष्णे शशंसामरराजसूनुम् ॥ 3-119-22(20600)
श्रुत्वा तु ते तस्य वचः प्रतीता-
स्तांश्चापि दृष्ट्वा सुकृशनतीव।
नेत्रोद्भवं संमुमुचुर्महार्हा
दुःखार्तिजं वारि महानुभावाः ॥ 3-119-23(20601)

इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि एकोनविंशत्यधिकशततमोऽध्यायः ॥ 119 ॥

Mahabharata - Vana Parva - Chapter Footnotes
3-119-2 वृत्तवान् सद्वृत्तः। पार्थिवः पृथ्वीपतिः कश्यपस्तस्य पुत्रः सूर्यस्तस्य पौत्रो युधिष्ठिरः तत्पितुर्धर्मस्य सूर्यपुत्रत्वात्। प्रशस्तां नाम नदीम् ॥ 3-119-4 नारीतीर्थानि ग्राहरूपाः पञ्चाप्सरसो मुनिशापवशाद्यत्र स्थिता अर्जुनेन च शापान्मोचितास्तानि नारीतीर्थानि ॥ 3-119-7 मम्बुधरोत्तमस्य समुद्रस्य ॥ 3-119-14 तीर्थेषु। उपवासान् पुमीपवासिनो विबुधान्पणअडितानुपोष्य वस्त्रैरावास् रत्नानि च तेभ्य एव दत्त्वा ॥ 3-119-20 कार्ज्जि प्रद्युम्नम्। पौत्रं सात्यकिम् ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.